|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.19. अध्यायः 019
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
कुन्त्या कृच्छ्रेण प्रतिनिवर्तितैर्युधिष्ठिरादिभिः कृच्छ्रात्पुनर्नगरं प्रत्यागमनम्॥ 1 ॥ धृताष्ट्रेण विदुरादिभिः सह वनमेत्य गङ्गातीरे सन्ध्योपास्त्यादिना रात्रियापनम्॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम।
व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सह भारत॥ 16-19-1(97705)
ततः शब्दो महानेव सर्वेषामभवत्तदा।
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथा गताम्॥ 16-19-2(97706)
प्रदक्षिणमथावृत्त्य राजानं पाण्डवास्तदा।
अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै॥ 16-19-3(97707)
ततोऽब्रवीन्महातेजा धृतराष्ट्रोंऽबिकासुतः।
गान्धारीं विदुरं चैव समाभाष्यावगृह्य च॥ 16-19-4(97708)
युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम्।
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि॥ 16-19-5(97709)
पुत्रैश्वर्यं महदिदमपास्य च महाफलम्।
काऽनुगच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत्॥ 16-19-6(97710)
राज्यस्थया तपस्तप्तुं कर्तुं दानव्रतं महत्।
अनया शक्यमेवाद्य श्रूयतां च वचो मम॥ 16-19-7(97711)
गान्धारि परितुष्टोस्मि वध्वाः शुश्रूषणेन वै।
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि॥ 16-19-8(97712)
इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह।
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत्॥ 16-19-9(97713)
न च सा वनवासाय देवी कृतमतिं तदा।
शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम्॥ 16-19-10(97714)
तस्यास्तां तु स्थितिं ज्ञात्वा व्यवसायं कुरुस्त्रियः।
निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा॥ 16-19-11(97715)
उपावृत्तेषु पार्थेषु सर्वास्वेव वधूषु च।
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा॥ 16-19-12(97716)
पाण्डवाश्चातिदीनास्ते दुःखशोकपरायणाः।
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा॥ 16-19-13(97717)
तदहृष्टमनानन्दं गतोत्सवमिवाभवत्।
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम्॥ 16-19-14(97718)
सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः।
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः॥ 16-19-15(97719)
धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम्।
ततो भागीरथीतीरे निवासमकरोत्प्रभुः॥ 16-19-16(97720)
प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः।
व्यराजन्त द्विजश्रेष्ठैस्तत्रतत्र तपोवने।
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः॥ 16-19-17(97721)
स राजाऽग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा।
सन्ध्यागतं सहस्रांशुमुपातिष्ठत भारत॥ 16-19-18(97722)
विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः।
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः॥ 16-19-19(97723)
गान्धार्याः सन्निकर्षे तु निषसाद कुशे सुखम्।
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता॥ 16-19-20(97724)
तेषां संश्रवणे चापि निषेदुर्विदुरादयः।
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः॥ 16-19-21(97725)
प्राधीतद्विजमुख्या सा संप्रज्वलितपावका।
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धिनी॥ 16-19-22(97726)
ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः।
हुत्वाऽग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम्।
उदङ्मुखा निरीक्षन्त उपवासपरायणाः॥ 16-19-23(97727)
स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि।
शोचतां वदतां चापि पौरजानपदैर्जनैः॥ ॥ 16-19-24(97728)
इति श्रीमन्महाभारते आश्रमवासिकर्वणि आश्रमवासपर्वणि एकोनविंशोऽध्यायः॥ 19 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|